जो मार्ग में बाधा बनता है, वही मार्ग बन जाता है। कार्य में आने वाली रुकावट ही कार्य को आगे बढ़ाती है।
हम वही हैं जो हम बार-बार करते हैं। इसलिए उत्कृष्टता कोई एक कार्य नहीं, बल्कि एक आदत है।
सकल पदारथ एहि जग माहीं। करमहीन नर पावत नाहीं॥
माता शत्रुः पिता वैरी येन बालो न पाठितः। न शोभते सभामध्ये हंसमध्ये बको यथा॥
लालयेत् पञ्च वर्षाणि दश वर्षाणि ताडयेत्। प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत्॥
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्। लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति॥
अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति। मलये भिल्लपुरन्ध्री चन्दनेन्धनं कुरुते॥
गुणो भूषयते रूपं शीलं भूषयते कुलम्। सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम्॥
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि। एकश्चन्द्रस्तमो हन्ति न च तारागणैरपि॥
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः। सर्पो दंशति कालेन दुर्जनस्तु पदे पदे॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्। वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्॥
न विश्वसेत् कुमित्रे च मित्रे चापि न विश्वसेत्। कदाचित् कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत्॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी। भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः॥
आलस्योपहता विद्या परहस्तं गतं धनम्। अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम्॥
विपत्तौ धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः। यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्॥
अधमा धनमिच्छन्ति धनं मानं च मध्यमाः। उत्तमा मानमिच्छन्ति मानो हि महतां धनम्॥
अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम्। दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम्॥
पादपानां भयं वातात् पद्मानां शिशिराद्भयम्। पर्वतानां भयं वज्रात् दुर्जनानां भयं भवेत्॥
तावद् भयेषु भेतव्यं यावद् भयमनागतम्। आगतं तु भयं वीक्ष्य प्रहर्तव्यमशङ्कया॥
उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम्। मौने च कलहो नास्ति नास्ति जागरिते भयम्॥
काकचेष्टा बकोध्यानं श्वाननिद्रा तथैव च। अल्पहारी गृहत्यागी विद्यार्थी पञ्चलक्षणम्॥
सुखार्थी चेत् त्यजेद्विद्यां विद्यार्थी चेत् त्यजेत्सुखम्। सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम्॥
हस्ती अङ्कुशमात्रेण वाजी हस्तेन ताड्यते। शृङ्गी लकुटहस्तेन खड्गहस्तेन दुर्जनः॥
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते। गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते॥
सत्येन धार्यते पृथ्वी सत्येन तपते रविः। सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥
नरकेषु च सर्वेषु नास्ति मित्रं समं नृणाम्। धर्म एव सहायार्थं गच्छत्यनुपदं नृणाम्॥
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः। पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत्॥
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः। न च विद्यागमोऽप्यस्ति वासस्तत्र न कारयेत्॥
एक्सप्लोर करें
#42
आपका पर्सनल कलेक्शन
पढ़ते समय किसी भी कोट पर डबल टैप करें या दिल के निशान को दबाकर यहां सेव करें।




































































कोई नतीजा नहीं मिला
किसी लेखक (जैसे कबीर, बुद्ध, विवेकानंद), मूड या टॉपिक से खोजकर देखें।
कोट कार्ड शेयर करें
लेखक के बारे में
विचार को समझें
•सुझाव देकर मदद करें
क्या कमी लगी? (वैकल्पिक)
“...”