#कठोपनिषद्

#42
“

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत। क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति॥

—उपनिषद्, कठोपनिषद् (१.३.१४)
कैटेगरी: धैर्य, साहस व संघर्षमूड: प्रेरणाटैग्स: #जागरण #उत्तिष्ठत #आत्म-साक्षात्कार #कठोपनिषद्
“

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा। जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव॥

—उपनिषद्, कठोपनिषद् (१.१.२७)
कैटेगरी: त्याग व वैराग्यमूड: दर्शनटैग्स: #नचिकेता #कठोपनिषद् #संतोष #आत्मविद्या
“

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः। तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते॥

—उपनिषद्, कठोपनिषद् (१.२.१)
कैटेगरी: विद्या व विवेकमूड: चिंतनटैग्स: #श्रेय #प्रेय #विवेक #कठोपनिषद्
“

आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥

—उपनिषद्, कठोपनिषद् (१.३.३)
कैटेगरी: आत्मज्ञान व चेतनामूड: दर्शनटैग्स: #रथ रूपक #कठोपनिषद् #इंद्रिय-निग्रह #मन
“

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥

कैटेगरी: आत्मज्ञान व चेतनामूड: दर्शनटैग्स: #परम प्रकाश #कठोपनिषद् #चेतना #दिव्य ज्योति
ऑफलाइन मोड चालू है