हमारे पीछे क्या है और हमारे आगे क्या है, यह उस बात की तुलना में अत्यंत तुच्छ है जो हमारे भीतर विद्यमान है।
ब्रह्मांड की सारी शक्तियां पहले से ही हमारी हैं। वो हमीं हैं जो अपनी आँखों पर हाथ रख लेते हैं और फिर रोते हैं कि कितना अंधकार है।
दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम्। मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः॥
लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम्। यः स्वात्ममुक्तौ न यतेत मूढधीः स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात्॥
अथातः संप्रवक्ष्यामि स्वरूपं परमात्मनः। यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते॥
अस्ति कश्चित्स्वयं नित्यमहंप्रत्ययसाक्षिकः। अवस्थात्रयसाक्षी यो विलक्षणः पञ्चकोशतः॥
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते या ब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी। सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चेत् चण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम॥
मनोबुद्ध्यहङ्कार चित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे। न च व्योम भूमिर्न तेजो न वायुश्चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥
न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः। न धर्मो न चार्थो न कामो न मोक्षश्चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥
न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थं न वेदा न यज्ञाः। अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥
न मृत्युर्न शङ्का न मे जातिभेदः पिता नैव मे नैव माता न जन्मः। न बन्धुर्न मित्रं गुरुर्नैव शिष्यश्चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते। संप्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ्करणे॥
मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम्। यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम्॥
नारीस्तनभरनाभीदेशं दृष्ट्वा मा गा मोहावेशम्। एतन्मांसवसादि विकारं मनसि विचिन्तय वारं वारम्॥
नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम्। विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम्॥
यावद्वित्तोपार्जनसक्तस्तावन्निजपरिवारो रक्तः। पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे॥
यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे। गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये॥
बालस्तावत्क्रीडासक्तस्तरुणस्तावत्तरुणीसक्तः। वृद्धस्तावच्चिन्तासक्तः परे ब्रह्मणि कोऽपि न सक्तः॥
का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः। कस्य त्वं कः कुतो यातः तत्त्वं चिन्तय तदिह भ्रातः॥
सत्संगत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम्। निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः॥
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः। क्षीणे वित्ते कः परिवारो ज्ञाते तत्त्वे कः संसारः॥
मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम्। मायामयमिदमखिलं बुद्ध्वा ब्रह्मपदं त्वं प्रविश विदित्वा॥
दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः। कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः॥
द्वादशमञ्जरिकाभिरशेषः कथितो वैयाकरणस्यैषः। उपदेशोऽभूद्विद्यानिपुणैः श्रीमच्छङ्करभगवच्चरणैः॥
काते कान्ता धनगतचिन्ता वातुल किं तव नास्ति नियन्ता। त्रिजगति सज्जनसंगतिरेका भवति भवार्णवतरणे नौका॥
जटिलो मुण्डी लुञ्छितकेशः काषायाम्बरबहुकृतवेषः। पश्यन्नपि चन पश्यति मूढो ह्युदरनिमित्तं बहुकृतवेषः॥
अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम्। वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम्॥
अग्रे वह्निः पृष्ठेभानुः रात्रौ चुबुकसमर्पितजानुः। करतलभिक्षस्तरुतलवासस्तदपि न मुञ्चत्याशापाशः॥
एक्सप्लोर करें
#42
आपका पर्सनल कलेक्शन
पढ़ते समय किसी भी कोट पर डबल टैप करें या दिल के निशान को दबाकर यहां सेव करें।




































































कोई नतीजा नहीं मिला
किसी लेखक (जैसे कबीर, बुद्ध, विवेकानंद), मूड या टॉपिक से खोजकर देखें।
कोट कार्ड शेयर करें
लेखक के बारे में
विचार को समझें
•सुझाव देकर मदद करें
क्या कमी लगी? (वैकल्पिक)
“...”