धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम्। धर्मेण लभते सर्वं धर्मसारमिदं जगत्॥
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता। निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे। कृतमेवास्य जानन्ति स वै पण्डित उच्यते॥
अक्रोधेन जयेत् क्रोधमसाधुं साधुना जयेत्। जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम्॥
सुखिनो न भवन्त्येते षड् वै नित्यं प्रतापिताः। ईर्षुर्घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते नित्यदुःखिताः॥
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते। यदूर्बलं मन्यन्ते क्षमया युक्तं जनं जनाः॥
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता। यमर्था नापकर्षन्ति स वै पण्डित उच्यते॥
सुलभाः पुरुषा राजन् सततं प्रियवादिनः। अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥
एक्सप्लोर करें
#42
आपका पर्सनल कलेक्शन
पढ़ते समय किसी भी कोट पर डबल टैप करें या दिल के निशान को दबाकर यहां सेव करें।




































































कोई नतीजा नहीं मिला
किसी लेखक (जैसे कबीर, बुद्ध, विवेकानंद), मूड या टॉपिक से खोजकर देखें।
कोट कार्ड शेयर करें
लेखक के बारे में
विचार को समझें
•सुझाव देकर मदद करें
क्या कमी लगी? (वैकल्पिक)
“...”